|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.94. अध्यायः 094
Mahabharata - Drona Parva - Chapter Topics
अर्जुनाद्भीतेन दुर्योधनेन द्रोणमेत्य तदुपालम्भपूर्वकं जयद्रथम्प्रति शोचनम्॥ 1 ॥ द्रोणेन दुर्योधनस्य मन्त्रोच्चारणपूर्वकं कवचमाबध्यार्जुनेन सह युद्धाय प्रेषणम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-94-0x(4500)(48323)
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया।
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम्॥ 7-94-1(48324)
काम्भोजस्य च दायादे हते राजन्सुदक्षिणे।
श्रुतायुषि च विक्रान्ते निहते सव्यसाचिना॥ 7-94-2(48325)
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः।
प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात्॥ 7-94-3(48326)
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत्।
गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम्॥ 7-94-4(48327)
अथ बुद्ध्या समीक्षस्व किन्नु कार्यमनन्तरम्।
अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये॥ 7-94-5(48328)
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः।
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः॥ 7-94-6(48329)
असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः।
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः॥ 7-94-7(48330)
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप।
जयद्रथस्य गोप्तारः संशयं परमं गताः॥ 7-94-8(48331)
स्थिरा बुद्धिर्नरेन्द्राणमासीद्ब्रह्मविदां वर।
नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः॥ 7-94-9(48332)
योऽसौ पाथो व्यतिक्रान्तो मिषतस्ते महाद्युते।
सर्वं ह्यद्यातुरं मन्ये नेदमस्ति बलं मम॥ 7-94-10(48333)
जानामि त्वां महाभाग पाण्डवानां हिते रतम्।
ततो मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन्॥ 7-94-11(48334)
यथाशक्ति च ते ब्रह्मन्वर्धयन्वृत्तिमुत्तमाम्।
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे॥ 7-94-12(48335)
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम।
पाण्डवान्सततं प्रीणास्यास्माकं विप्रिये रतान्॥ 7-94-13(48336)
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः।
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम्॥ 7-94-14(48337)
`नह्यहं त्वां विजानामि सर्वं मण्डूकराविणम्'।
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे।
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान्॥ 7-94-15(48338)
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना।
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे॥ 7-94-16(48339)
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः।
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः॥ 7-94-17(48340)
स तथा कुरु शोणश्व यथा मुच्येत सैन्धवः।
मम चार्तप्रलापानां माक्रुधः पाहि सैन्धवम्॥ 7-94-18(48341)
द्रोण उवाच। 7-94-19x(4501)
नाभ्यसूयामि ते वाक्यमश्वत्थाम्नाऽसि मे समः।
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशाम्पते॥ 7-94-19(48342)
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः।
अल्पं च विवरं कृत्वा पूर्णं याति धनञ्जयः॥ 7-94-20(48343)
किं न पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः।
पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः॥ 7-94-21(48344)
न ताबं शीघ्रयानेऽद्य समर्थो वयसान्वितः।
सेनामुखे च पार्थानामेतद्बलमुपस्थितम्॥ 7-94-22(48345)
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम्।
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज॥ 7-94-23(48346)
धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे नृप।
तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम्॥ 7-94-24(48347)
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान्।
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः॥ 7-94-25(48348)
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः।
वीरः स्वयं प्रयाह्याशु यत्र पार्थो धनञ्जयः॥ 7-94-26(48349)
दुर्योधन उवाच। 7-94-27x(4502)
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरम्।
धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम्॥ 7-94-27(48350)
अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः।
नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः॥ 7-94-28(48351)
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः।
अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः॥ 7-94-29(48352)
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः।
श्रुतायुश्चाश्रुतायुश्च भ्लेच्छाश्चायुतशो हताः॥ 7-94-30(48353)
तं कथं पाण्डवं युद्धे दहन्तमिव पावकम्।
प्रतियोत्स्यामि दुर्धर्षं तन्ममाचक्ष्व सत्तम्। 7-94-31(48354)
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम्।
परवानस्मि भवतः प्रेष्यवद्रक्ष मे यशः॥ 7-94-32(48355)
द्रोण उवाच। 7-94-33x(4503)
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः।
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि॥ 7-94-33(48356)
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः।
विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः॥ 7-94-34(48357)
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम्।
यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे॥ 7-94-35(48358)
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः।
योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम्॥ 7-94-36(48359)
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे।
शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति॥ 7-94-37(48360)
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम्।
त्वरमाणः स्वयं याहि न त्वाऽसौ विषहिष्यति॥ 7-94-38(48361)
सञ्जय उवाच। 7-94-39x(4504)
एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम्।
आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि॥ 7-94-39(48362)
रणे तस्मिन्सुमहति विजयस्य सुतस्य ते।
विसिष्मापयिषुर्लोकान्विद्यया ब्रह्मवित्तमः॥ 7-94-40(48363)
द्रोण उवाच। 7-94-41x(4505)
करोतु स्वस्ति ते ब्रह्मा स्वस्ति कुर्वन्तु ब्राह्मणाः।
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत॥ 7-94-41(48364)
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः।
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु ते सदा॥ 7-94-42(48365)
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च।
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे॥ 7-94-43(48366)
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा।
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ॥ 7-94-44(48367)
अमितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः।
वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप॥ 7-94-45(48368)
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः।
स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः॥ 7-94-46(48369)
`येन देवाः सकृद्भग्नाः सङ्ग्रमे तारकामये।
धृताः स च हतः शूरो ह्यवध्यो देवतागणैः॥ 7-94-47(48370)
विवस्वान्कुरुतां स्वस्ति तथा वैवस्वतो यमः।
पार्षिदा वशगा यस्य स्वस्ति तुभ्यं प्रयच्छतु'॥ 7-94-48(48371)
दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः।
`दिशश्च विदिशश्चैव सिद्धा लोकहिते रताः।
स्वस्ति कुर्वन्तु ते नित्यं मन्त्रेणानेन रस्तुताः'॥ 7-94-49(48372)
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप।
शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु॥ 7-94-50(48373)
गान्धारे युधि विक्रम्य निर्जिते पाकशासनेः।
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः॥ 7-94-51(48374)
हृततेजोबलाः स्रवे तदा सेन्द्रा दिवौकसः।
ब्रह्माणं शरणं जग्मुर्वृत्राद्भीतां महासुरात्॥ 7-94-52(48375)
देवा ऊचुः। 7-94-53x(4506)
प्रमार्दितानां वृत्रेण देवानां देवसत्तम।
गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात्॥ 7-94-53(48376)
अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान्।
प्राह पथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान्॥ 7-94-54(48377)
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः।
त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः॥ 7-94-55(48378)
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा।
वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात्॥ 7-94-56(48379)
शंकरस्य प्रसादाद्वै हन्याद्देवरिपुर्बली।
नागत्वा शंकरस्थानं भगवान्दृश्यते हरः॥ 7-94-57(48380)
दृष्ट्वा जेष्यथ वृत्रं तं क्षिप्रं गच्छत मन्दरम्।
यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः॥ 7-94-58(48381)
पिनाकी सर्वभूतेशो भगनेत्रनिपातनः।
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम्॥ 7-94-59(48382)
अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम्।
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम्॥ 7-94-60(48383)
अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः।
एवमुक्तास्तु ते सर्वे प्रत्युचूस्तं दिवौकसः॥ 7-94-61(48384)
हृतौजसां नो वृत्रेण गतिर्भव दिवौकसाम्।
मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः।
शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर॥ 7-94-62(48385)
शर्वे उवाच।
विदितं वो यथा देवाः कृत्येयं सुमहाबला। 7-94-63(48386)
त्वष्टुस्तेजोभवा घोरा दुर्निवार्याऽकृतात्मभिः॥
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम्। 7-94-64(48387)
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम्॥
बधानानेन मन्त्रेण मानसेन सुरेश्वर। 7-94-65(48388)
वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः॥ 7-94-66(48389)
द्रोण उवाच। 7-94-66x(4507)
इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च।
स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति॥ 7-94-66(48390)
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे।
न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु॥ 7-94-67(48391)
स तेन वर्मणा गुप्तो वृत्रं देवरिपुं तदा।
जघान समरेऽभीतः शक्रो देवाग्रणीस्तदा॥ 7-94-68(48392)
तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ।
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः।
बृहस्पतिरथोवाच अग्निवेश्याय धीमते॥ 7-94-69(48393)
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते।
तवाह्य देहरक्षार्थं मन्त्रेण नृपसत्तम॥ 7-94-70(48394)
सञ्जय उवाच। 7-94-71x(4508)
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम्।
पुनरे वचः प्राह शनैराचार्यपुङ्गवः॥ 7-94-71(48395)
ब्रह्मसूत्रेण बध्नामि कथचं तव भारत।
हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे॥ 7-94-72(48396)
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये।
शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव॥ 7-94-73(48397)
सञ्जय उवाच। 7-94-74x(4509)
बद्धा तु कवचं तस्य मन्त्रेण विधिपूर्वकम्।
प्रेषयामास राजानं युद्धाय महते द्विजः॥ 7-94-74(48398)
स सन्नद्धो महाबाहुराचार्येण महात्मना।
`प्रस्थितः सहसा राजन्यत्र यातो धनञ्जयः'॥ 7-94-75(48399)
रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम्।
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम्॥ 7-94-76(48400)
अश्वानां नियुतेनैव तथाऽन्यैश्च महारथैः।
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति॥ 7-94-77(48401)
नानावादित्रघोषेण यथा वैरोचनिस्तथा॥ 7-94-78(48402)
ततः शब्दो महानासीत्सैन्यानां तव भारत।
अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम्॥ ॥ 7-94-79(48403)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुर्नवतितमोऽध्यायः॥ 94 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-94-10 आतुरमनवस्पितम्॥ 5-94-12 नावबुध्यसे न स्मरसि॥ 5-94-13 नेच्छसि नानुरुध्यते॥ 5-94-14 वचसा ललितं सदा। हृदयेन भृशं तीक्ष्णं इति क. पाठः॥ 5-94-35 ते त्वाम्॥ 5-94-49 चत्वार ऐरावतवामनाञ्जनसार्वभौमाः॥ 5-94-56 अनुज्ञां वरम्॥ 5-94-57 हन्याद्धन्तुमर्हति॥ 5-94-65 मानसेन मनसोच्चारणीयेन॥ 5-94-72 ब्रह्मसूत्रेण ब्रह्मणा सूचितेनो पदेशेन॥ 5-94-94 चतुर्नवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|